|
अर्जुन
उवाच
|
|
1
|
एवं सतत-युक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योग-वित्तमाः ॥ |
|
भगवान्
उवाच
|
|
2
|
मय्यावेश्य मनो ये मां नित्य-युक्ता उपासते ।
श्रद्धया परयोपेताः ते मे युक्त-तमा मताः ॥ |
|
3
|
ये त्वक्षरमनिर्देश्यं अव्यक्तं पर्युपासते ।
सर्वत्र-गमचिंत्यं च कूट-स्थमचलं ध्रुवम् ॥ |
|
4
|
सन्नियम्येंद्रिय-ग्रामं सर्वत्र सम-बुद्धयः ।
ते प्राप्नुवंति मामेव सर्व-भूत-हिते रताः ॥ |
|
5
|
क्लेशोऽधिक-तरस्तेषां अव्यक्तासक्त-चेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देह-वद्भिरवाप्यते ॥ |
|
6
|
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः ।
अनन्येनैव योगेन मां ध्यायंत उपासते ॥ |
|
7
|
तेषामहं समुद्धर्ता मृत्यु-संसार-सागरात् ।
भवामि न-चिरात् पार्थ मय्यावेशित-चेतसाम् ॥ |
|
8
|
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ |
|
9
|
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यास-योगेन ततो मामिच्छाsप्तुं धनं-जय ॥ |
|
10
|
अभ्यासेऽप्यसमर्थोऽसि मत्-कर्म-परमो भव ।
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ॥ |
|
11
|
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्व-कर्म-फल-त्यागं ततः कुरु यतात्म-वान् ॥ |
|
12
|
श्रेयो हि ज्ञानमभ्यासात् ज्ञानाद् ध्यानं विशिष्यते ।
ध्यानात् कर्म-फल-त्यागः त्यागाच्छांतिरनंतरम् ॥ |
|
13
|
अद्वेष्टा सर्व-भूतानां मैत्रः करुण एव च ।
निर्ममो निरहंकारः सम-दुःख-सुखः क्षमी ॥ |
|
14
|
संतुष्टः सततं योगी यतात्मा दृढ-निश्चयः ।
मय्यर्पित-मनो-बुद्धिः यो मद्भक्तः स मे प्रियः ॥ |
|
15
|
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्ष-भयोद्वेगैः मुक्तो यः स च मे प्रियः ॥ |
|
16
|
अनपेक्षः शुचिर्दक्षः उदासीनो गत-व्यथः ।
सर्वारंभ-परित्यागी यो मद्-भक्तः स मे प्र्रियः ॥ |
|
17
|
यो न हृष्यति न द्वेष्टि न शोचति न कांक्षति ।
शुभाशुभ-परित्यागी भक्ति-मान् यः स मे प्रियः ॥ |
|
18
|
समः शत्रौ च मित्रे च तथा मानाप-मानयोः ।
शीतोष्ण-सुख-दुःखेषु समः संग-विवर्जितः ॥ |
|
19
|
तुल्य-निंदा-स्तुतिर्मौनी संतुष्टो येन-केन-चित् ।
अनिकेतः स्थिर-मतिः भक्ति-मान् मे प्रियो नरः ॥ |
|
20
|
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्-परमाः भक्तास्तेऽतीव मे प्रियाः ॥ |