अथ अष्टादशोऽध्यायः अध्याय १८
| अर्जुन उवाच | |
| 1 | संन्यासस्य महाबाहो तत्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक् केशि-निषूदन ॥ |
| भगवान् उवाच | |
| 2 | काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्व-कर्म-फल-त्यागं प्राहुस्त्यागं विचक्षणाः ॥ |
| 3 | त्याज्यं दोष-वदित्येके कर्म प्राहुर्मनीषिणः । यज्ञ-दान-तपः-कर्म न त्याज्यमिति चापरे ॥ |
| 4 | निश्श्चयं शृणु मे तत्र त्यागे भरत-सत्तम । त्यागो हि पुरुष-व्याघ्र त्रि-विधः संप्र-कीर्तितः ॥ |
| 5 | यज्ञ-दान-तपः-कर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ |
| 6 | एतान्यपि तु कर्माणि संगं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ |
| 7 | नियतस्य तु संन्यासः कर्मणो नोप-पद्यते । मोहात् तस्य परित्यागः तामसः परि-कीर्तितः ॥ |
| 8 | दुःखमित्येव यत् कर्म काय-क्लेश-भयात् त्यजेत् । स कृत्वा राजसं त्यागं नैव त्याग-फलं लभेत् ॥ |
| 9 | कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन । संगं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ |
| 10 | न द्वेष्ट्यकुशलं कर्म कुशले नानु-षज्जते । त्यागी सत्त्व-समाविष्टो मेधावी छिन्न-संशयः ॥ |
| 11 | न हि देह-भृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्म-फल-त्यागी स त्यागीत्यभि-धीयते ॥ |
| 12 | अनिष्टमिष्टं मिश्रं च त्रि-विधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ |
| 13 | पंचैतानि महा-बाहो कारणानि निबोध मे । सांख्ये कृतांते प्रोक्तानि सिद्धये सर्व-कर्मणाम् ॥ |
| 14 | अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक् चेष्टा दैवं चैवात्र पंचमम् ॥ |
| 15 | शरीर-वाङ्मनोभिर्यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पंचैते तस्य हेतवः ॥ |
| 16 | तत्रैवं सति कर्तारं आत्मानं केवलं तु यः । पश्यत्यकृत-बुद्धित्वात् न स पश्यति दुर्मतिः ॥ |
| 17 | यस्य नाहं-कृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वाऽपि स इमान् लोकान् न हंति न निबध्यते ॥ |
| 18 | ज्ञानं ज्ञेयं परि-ज्ञाता त्रि-विधा कर्म-चोदना । करणं कर्म कर्तेति त्रि-विधः कर्म-संग्रहः ॥ |
| 19 | ज्ञानं कर्म च कर्ता च त्रि-धैव गुण-भेदतः । प्रोच्यते गुण-संख्याने यथावच्छृणु तान्यपि ॥ |
| 20 | सर्व-भूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ |
| 21 | पृथक्त्वेन तु यज्ज्ञानं नाना-भावान् पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ |
| 22 | यत् तु कृत्स्न-वदेकस्मिन् कार्ये सक्तमहैतुकम् । अतत्वार्थ-वदल्पं च तत् तामसमुदाहृतम् ॥ |
| 23 | नियतं संग-रहितं अराग-द्वेषतः कृतम् । अफल-प्रेप्सुना कर्म यत् तत् सात्त्विकमुच्यते ॥ |
| 24 | यत् तु कामेप्सुना कर्म साहं-कारेण वा पुनः । क्रियते बहुलायासं तद् राजसमुदाहृतम् ॥ |
| 25 | अनुबंधं क्षयं हिंसां अनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत् तत् तामसमुच्यते ॥ |
| 26 | मुक्त-संगोऽनहं-वादी धृत्युत्साह-समन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ |
| 27 | रागी कर्म-फल-प्रेप्सुः लुब्धो हिंसात्मकोऽशुचिः । हर्ष-शोकान्वितः कर्ता राजसः परिकीर्तितः ॥ |
| 28 | अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः । विषादी दीर्घ-सूत्री च कर्ता तामस उच्यते ॥ |
| 29 | बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रि-विधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनं-जय ॥ |
| 30 | प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बंधं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ |
| 31 | यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथा-वत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥ |
| 32 | अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता । सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ |
| 33 | धृत्या यया धारयते मनः-प्राणेंद्रिय-क्रियाः । योगेनाव्यभि-चारिण्या धृतिः सा पार्थ सात्त्विकी ॥ |
| 34 | यया तु धर्म-कामार्थान् धृत्या धारयतेऽर्जुन । प्रसंगेन फलाकांक्षी धृतिः सा पार्थ राजसी ॥ |
| 35 | यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुंचति दुर्मेधा धृतिः सा पार्थ तामसी ॥ |
| 36 | सुखं त्विदानीं त्रि-विधं शृणु मे भरतर्षभ । अभ्यासाद् रमते यत्र दुःखांतं च निगच्छति ॥ |
| 37 | यत् तदग्रे विषमिव परिणामेऽमृतोपमम् । तत् सुखं सात्विकं प्रोक्तं आत्म-बुद्धि-प्रसाद-जम् ॥ |
| 38 | विषयेंद्रिय-संयोगात् यत् तदग्रेऽमृतोपमम् । परिणामे विषमिव तत् सुखं राजसं स्मृतम् ॥ |
| 39 | यदग्रे चानुबंधे च सुखं मोहनमात्मनः । निद्रालस्य-प्रमादोत्थं तत् तामसमुदाहृतम् ॥ |
| 40 | न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्वं प्रकृति-जैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः ॥ |
| 41 | ब्राह्मण-क्षत्रिय-विशां शूद्राणां च परं-तप । कर्माणि प्रवि-भक्तानि स्व-भाव-प्रभवैर्गुणैः ॥ |
| 42 | शमो दमस्तपः शौचं क्षांतिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्म-कर्म स्व-भाव-जम् ॥ |
| 43 | शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वर-भावश्च क्षात्रं कर्म स्व-भाव-जम् ॥ |
| 44 | कृषि-गो-रक्ष-वाणिज्यं वैश्य-कर्म स्व-भाव-जम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्व-भाव-जम् ॥ |
| 45 | स्वे स्वे कर्मण्यभि-रतः संसिद्धिं लभते नरः । स्व-कर्म-निरतः सिद्धिं यथा विंदति तच्छृणु ॥ |
| 46 | यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्व-कर्मणा तमभ्यर्च्य सिद्धिं विंदति मानवः ॥ |
| 47 | श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् । स्व-भाव-नियतं कर्म कुर्वन् नाऽप्नोति किल्बिषम् ॥ |
| 48 | सह-जं कर्म कौंतेय स-दोषमपि न त्यजेत् । सर्वारंभा हि दोषेण धूमेनाग्निरिवाऽमृताः ॥ |
| 49 | असक्त-बुद्धिः सर्वत्र जितात्मा विगत-स्पृहः । नैष्कर्म्य-सिद्धिं परमां संन्यासेनाधिगच्छति ॥ |
| 50 | सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे । समासेनैव कौंतेय निष्ठा ज्ञानस्य या परा ॥ |
| 51 | बुद्ध्याविशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च । शब्दादीन् विषयांस्त्यक्त्वा राग-द्वेषौ व्युदस्य च ॥ |
| 52 | विविक्त-सेवी लघ्वाशी यत-वाक्काय-मानसः । ध्यान-योग-परो नित्यं वैराग्यं समुपाश्रितः ॥ |
| 53 | अहं-कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शांतो ब्रह्म-भूयाय कल्पते ॥ |
| 54 | ब्रह्म-भूतः प्रसन्नात्मा न शोचति न कांक्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ |
| 55 | भक्त्या मामभि-जानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनंतरम् ॥ |
| 56 | सर्व-कर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ |
| 57 | चेतसा सर्व-कर्माणि मयि संन्यस्य मत्परः । बुद्धि-योगमुपाश्रित्य मच्चित्तः सततं भव ॥ |
| 58 | मच्चित्तः सर्व-दुर्गाणि मत्प्रसादात् तरिष्यसि । अथ चेत् त्वमहं-कारात् न श्रोष्यसि विनंक्ष्यसि ॥ |
| 59 | यदहं-कारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ |
| 60 | स्व-भाव-जेन कौंतेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत् ॥ |
| 61 | ईश्वरः सर्व-भूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यंत्रारूढानि मायया ॥ |
| 62 | तमेव शरणं गच्छ सर्व-भावेन भारत । तत्-प्रसादात् परां शांतिं स्थानं प्राप्स्यसि शाश्वतम् ॥ |
| 63 | इति ते ज्ञानमाख्यातं गुह्याद् गुह्य-तरं मया । विमृश्शैतदशेषेण यथेच्छसि तथा कुरु ॥ |
| 64 | सर्व-गुह्य-तमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ |
| 65 | मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ |
| 66 | सर्व-धर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः ॥ |
| 67 | इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ |
| 68 | य इमं परमं गुह्यं मद्-भक्तेष्वभि-धास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ |
| 69 | न च तस्मान्मनुष्येषु कश्चिन्मे प्रिय-कृत्तमः । भविता न च मे तस्मात् अन्यः प्रिय-तरो भुवि ॥ |
| 70 | अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञान-यज्ञेन तेनाहं इष्टः स्यामिति मे मतिः ॥ |
| 71 | श्र्रद्धा-वाननसूयश्च शृणुयादपि यो नरः । सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात्पुण्य-कर्मणाम् ॥ |
| 72 | कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञान-संमोहः प्रनष्टस्ते धनं-जय ॥ |
| अर्जुन उवाच | |
| 73 | नष्टो मोहः स्मृतिर्लब्धा त्वत्-प्रसादान्मयाऽच्युत । स्थितोऽस्मि गत-संदेहः करिष्ये वचनं तव ॥ |
| 74 | इत्यहं वासु-देवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषं अद्भुतं रोम-हर्षणम् ॥ |
| 75 | व्यास-प्रसादाच्छ्रुतवान् एतद् गुह्यमहं परम् । योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥ |
| 76 | राजन् संस्मृत्य-संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ |
| 77 | तच्च संस्मृत्य-संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान् राजन् हृष्यामि च पुनः-पुनः ॥ |
| 78 | यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिः ध्रुवा नीतिर्मतिर्मम ॥ |
इति अष्टादशोऽध्यायः
श्री वेदव्यास जी ने रचे हुए लाख श्लोकों की महाभारत संहिता के भीष्म पर्व में आयाहुवा श्रीकृष्णार्जुन संवादरूपी भगवद्गीता के अवांतरपर्व में आयी हुई की००००-० अध्यायों समाप्ति हुई।