|
1
|
इदं तु ते गुह्य-तमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञान-सहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ |
|
2
|
राज-विद्या राज-गुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षाव-गमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ |
|
3
|
अश्रद्दधानाः पुरुषाः धर्मस्यास्य परं-तप ।
अप्राप्य मां निवर्तंते मृत्यु-संसार-वर्त्मनि ॥ |
|
4
|
मया ततमिदं सर्वं जगदव्यक्त-मूर्तिना ।
मत्स्थानि सर्व-भूतानि नचाहं तेष्ववस्थितः ॥ |
|
5
|
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूत-भृन्न च भूत-स्थो ममाऽत्मा भूत-भावनः ॥ |
|
6
|
यथाऽऽकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युप-धारय ॥ |
|
7
|
सर्व-भूतानि कौंतेय प्रकृतिं यांति मामिकाम् ।
कल्प-क्षये पुनस्तानि कल्पादौ वि-सृजाम्यहम् ॥ |
|
8
|
प्रकृतिं स्वामवष्टभ्य वि-सृजामि पुनः-पुनः ।
भूत-ग्राममिमं कृत्स्नं अवशं प्रकृतेर्वशात् ॥ |
|
9
|
न च मां तानि कर्माणि निबध्नंति धनं-जय ।
उदासीनवदासीनं असक्तं तेषु कर्मसु ॥ |
|
10
|
मयाऽध्यक्षेण प्रकृतिः सूयते स-चराचरम् ।
हेतुनाऽनेन कौंतेय जगद् विपरि-वर्तते ॥ |
|
11
|
अव-जानंति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानंतो मम भूत-महेश्वरम् ॥ |
|
12
|
मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ |
|
13
|
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजंत्यनन्य-मनसो ज्ञात्वा भूतादिमव्ययम् ॥ |
|
14
|
सततं कीर्तयंतो मां यतंतश्च दृढ-व्रताः ।
नमस्यंतश्च मां भक्त्या नित्य-युक्ता उपासते ॥ |
|
15
|
ज्ञान-यज्ञेन चाप्यन्ये यजंतो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम् ॥ |
|
16
|
अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम् ।
मंत्रोऽहमहमेवाऽज्यं अहमग्निरहं हुतम् ॥ |
|
17
|
पिताऽहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोंकारः ऋक् साम यजुरेव च ॥ |
|
18
|
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रळयः स्थानं निधानं बीजमव्ययम् ॥ |
|
19
|
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ |
|
20
|
त्रैविद्या मां सोम-पाः पूत-पापाः
यज्ञैरिष्ट्वास्वर्गतिं प्रार्थयंते ।
ते पुण्यमासाध्य सुरेंद्र-लोकं
अश्नंति दिव्यान् दिवि देव-भोगान् ॥ |
|
21
|
ते तं भुक्त्वा स्वर्ग-लोकं विशालं
क्षीणे पुण्ये मर्त्य-लोकं विशंति ।
एवं त्रयी-धर्ममनु-प्रपन्नाः
गतागतं काम-कामा लभंते ॥ |
|
22
|
अनन्याश्चिंतयंतो मां ये जनाः पर्युपासते ।
तेषां नित्याभि-युक्तानां योग-क्षेमं वहाम्यहम् ॥ |
|
23
|
येऽप्यन्य-देवता-भक्ताः यजंते श्रद्धयाऽन्विताः ।
तेऽपि मामेव कौंतेय यजंत्यविधि-पूर्वकम् ॥ |
|
24
|
अहं हि सर्व-यज्ञानां भोक्ता च प्रभुरेव च ।
नतु मामभि-जानंति तत्त्वेनातश्च्यवंति ते ॥ |
|
25
|
यांति देव-व्रता देवान् पितॄन् यांति पितृ-व्रताः ।
भूतेज्या यांति भूतानि यांति मद्याजिनोऽपि माम् ॥ |
|
26
|
पत्रं पुष्पं फलं तोयं यो मे भक्त्याप्रयच्छति ।
तदहं भक्त्युप-हृतं अश्नामि प्रयतात्मनः ॥ |
|
27
|
यत् करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौंतेय तत् कुरुष्व मदर्पणम् ॥ |
|
28
|
शुभाशुभ-फलैरेवं मोक्ष्यसे कर्म-बंधनैः ।
संन्यास-योग-युक्तात्मा विमुक्तो मामुपैष्यसि ॥ |
|
29
|
समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजंति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ |
|
30
|
अपि चेत् सु-दुराचारो भजते मामनन्य-भाक् ।
साधुरेव स मंतव्यः सम्यग् व्यवसितो हि सः ॥ |
|
31
|
क्षिप्रं भवति धर्मात्मा शश्वच्छांतिं निगच्छति ।
कौंतेय प्रति-जानीहि न मे भक्तः प्रणश्यति ॥ |
|
32
|
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पाप-योनयः ।
स्त्रियो वैश्यास्तथा शूद्राः तेऽपि यांति परां गतिम् ॥ |
|
33
|
किं पुनर्ब्राह्मणाः पुण्याः भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकं इमं प्राप्य भजस्व माम् ॥ |
|
34
|
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवं आत्मानं मत्परायणः ॥ |