|
अर्जुन
उवाच
|
|
1
|
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च
एतद् वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ |
|
भगवान्
उवाच
|
|
2
|
इदं शरीरं कौंतेय क्षेत्रमित्यभि-धीयते ।
एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ |
|
3
|
क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत ।
क्षेत्र-क्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं मम ॥ |
|
4
|
तत् क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत् समासेन मे शृणु ॥ |
|
5
|
ऋषिभिर्बहुधा गीतं छंदोभिर्विविधैः पृथक् ।
ब्रह्म-सूत्र-पदैश्चैव हेतु-मद्भिर्वि-निश्चितैः ॥ |
|
6
|
महा-भूतान्यहं-कारो बुद्धिरव्यक्तमेव च ।
इंद्रियाणि दशैकं च पंच चेंद्रिय-गोचराः ॥ |
|
7
|
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ।
एतत् क्षेत्रं समासेन स-विकारमुदाहृतम् ॥ |
|
8
|
अमानित्वमडंभित्वं अहिंसा क्षांतिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्म-विनिग्रहः ॥ |
|
9
|
इंद्रियार्थेषु वैराग्यं अनहंकार एव च ।
जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानु-दर्शनम् ॥ |
|
10
|
असक्तिरनभिष्वंगः पुत्र-दार-गृहादिषु ।
नित्यं च सम-चित्तत्वं इष्टानिष्टोप-पत्तिषु ॥ |
|
11
|
मयि चानन्य-योगेन भक्तिरव्यभि-चारिणी ।
विविक्त-देश-सेवित्वं अरतिर्जन-संसदि ॥ |
|
12
|
अध्यात्म-ज्ञान-नित्यत्वं तत्त्व-ज्ञानार्थ-दर्शनम् ।
एतज्ज्ञानमिति प्रोक्तं अज्ञानं यदतोऽन्यथा ॥ |
|
13
|
ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते ।
अनादि-मत् परं ब्रह्म न सत् तन्नासदुच्यते ॥ |
|
14
|
सर्वतः-पाणि-पादं तत् सर्वतोऽक्षि-शिरो-मुखम् ।
सर्वतः-श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ |
|
15
|
सर्वेंद्रिय-गुणाभासं सर्वेंद्रिय-विवर्जितम् ।
असक्तं सर्व-भृच्चैव निर्गुणं गुण-भोक्तृ च ॥ |
|
16
|
बहिरंतश्च भूतानां अचरं चरमेव च ।
सूक्ष्मत्वात् तदविज्ञेयं दूर-स्थं चांतिके च तत् ॥ |
|
17
|
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूत-भर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ |
|
18
|
ज्योतिषामपि तज्ज्योतिः तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य धिष्ठितम् ॥ |
|
19
|
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद् विज्ञाय मद्भावायोप-पद्यते ॥ |
|
20
|
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृति-संभवान् ॥ |
|
21
|
कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुरुच्यते ॥ |
|
22
|
पुरुषः प्रकृति-स्थो हि भुंक्ते प्रकृति-जान् गुणान् ।
कारणं गुण-संगोऽस्य सदसद्योनि-जन्मसु ॥ |
|
23
|
उप-द्रष्टाऽनु-मंता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥ |
|
24
|
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्त-मानोऽपि न स भूयोऽभि-जायते ॥ |
|
25
|
ध्यानेनाऽत्मनि पश्यंति केचिदात्मानमात्मना ।
अन्ये सांख्येन योगेन कर्म-योगेन चापरे ॥ |
|
26
|
अन्ये त्वेवमजानंतः श्रुत्वाऽन्येभ्य उपासते ।
तेऽपि चाति-तरंत्येव मृत्युं श्रुति-परायणाः ॥ |
|
27
|
यावत् संजायते किंचित् सत्वं स्थावर-जंगमम् ।
क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि भरतर्षभ ॥ |
|
28
|
समं सर्वेषु भूतेषु तिष्ठंतं परमेश्वरम् ।
विनश्यत्स्ववि-नश्यंतं यः पश्यति स पश्यति ॥ |
|
29
|
समं पश्यन् हि सर्वत्र समव-स्थितमीश्वरम् ।
न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम् ॥ |
|
30
|
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथाऽऽत्मानं अकर्तारं स पश्यति ॥ |
|
31
|
यदा भूत-पृथग्भावं एक-स्थमनु-पश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ |
|
32
|
अनादि-त्वान्निर्गुण-त्वात् परमात्माऽयमव्ययः ।
शरीर-स्थोऽपि कौंतेय न करोति न लिप्यते ॥ |
|
33
|
यथा सर्व-गतं सौक्ष्यात् आकाशं नोप-लिप्यते ।
सर्वत्राव-स्थितो देहे तथाऽऽत्मा नोप-लिप्यते ॥ |
|
34
|
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ |
|
35
|
क्षेत्र-क्षेत्रज्ञयोरेवं अंतरं ज्ञान-चक्षुषा ।
भूत-प्रकृति-मोक्षं च ये विदुर्यांति ते परम् ॥ |