अथ चतुर्दशोऽध्यायः अध्याय १४

1 परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥
2 इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोप-जायंते प्रळये न व्यथंति च ॥
3 मम योनिर्महद्-ब्रह्म तस्मिन् गर्भं दधाम्यहम् । संभवः सर्व-भूतानां ततो भवति भारत ॥
4 सर्व-योनिषु कौंतेय मूर्तयः संभवंति याः । तासां ब्रह्म महद्योनिः अहं बीज-प्रदः पिता ॥
5 सत्वं रजस्तम इति गुणाः प्रकृति-संभवाः । निबध्नंति महा-बाहो देहे देहिनमव्ययम् ॥
6 तत्र सत्वं निर्मलत्वात् प्रकाशकमनामयम् । सुख-संगेन बध्नाति ज्ञान-संगेन चानघ ॥
7 रजो रागात्मकं विद्धि तृष्णा-संग-समुद्भवम् । तन्निबध्नाति कौंतेय कर्म-संगेन देहिनम् ॥
8 तमस्त्वज्ञान-जं विद्धि मोहनं सर्व-देहिनाम् । प्रमादालस्य-निद्राभिः तन्निबध्नाति भारत ॥
9 सत्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥
10 रजस्तमश्चाभि-भूय सत्वं भवति भारत । रजः सत्वं तमश्चैव तमः सत्वं रजस्तथा ॥
11 सर्व-द्वारेषु देहेऽस्मिन् प्रकाश उप-जायते । ज्ञानं यदा तदा विद्यात् विवृद्धं सत्वमित्युत ॥
12 लोभः प्रवृत्तिरारंभः कर्मणामशमः स्पृहा । रजस्येतानि जायंते विवृद्धे भरतर्षभ ॥
13 अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायंते विवृद्धे कुरु-नंदन ॥
14 यदा सत्वे प्रवृद्धे तु प्रळयं याति देह-भृत् । तदोत्तम-विदां लोकान् अमलान् प्रतिपद्यते ॥
15 रजसि प्रळयं गत्वा कर्म-संगिषु जायते । तथा प्रलीनस्तमसि मूढ-योनिषु जायते ॥
16 कर्मणः सुकृतस्याहुः सात्विकं निर्मलं फलम् । रजसस्तु फलं दुःखं अज्ञानं तमसः फलम् ॥
17 सत्वात् संजायते ज्ञानं रजसो लोभ एव च । प्रमाद-मोहौ तमसो भवतोऽज्ञानमेव च ॥
18 ऊर्ध्वं गच्छंति सत्व-स्थाः मध्ये तिष्ठंति राजसाः । जघन्य-गुण-वृत्ति-स्थाः अधो गच्छंति तामसाः ॥
19 नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनु-पश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥
20 गुणानेतानतीत्य त्रीन् देही देह-समुद्भवान् । जन्म-मृत्यु-जरा-दुःखैः विमुक्तोऽमृतमश्नुते ॥
अर्जुन उवाच
21 कैर्लिंगैस्त्रीन् गुणानेतान् अतीतो भवति प्रभो । किमाचारः कथं चैतान् त्रीन् गुणानति-वर्तते ॥
भगवान् उवाच
22 प्रकाशं च प्रवृत्तिं च मोहमेव च पांडव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि कांक्षति ॥
23 उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तंत इत्येव योऽव-तिष्ठति नेंगते ॥
24 सम-दुःख-सुखः स्वस्थः सम-लोष्टाश्म-कांचनः । तुल्य-प्रियाप्रियो धीरः तुल्य-निंदात्म-संस्तुतिः ॥
25 मानाप-मानयोस्तुल्यः तुल्यो मित्रारि-पक्षयोः । सर्वारंभ-परित्यागी गुणातीतः स उच्यते ॥
26 मां च योऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥
27 ब्रह्मणो हि प्रतिष्ठाऽहं अमृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकांतिकस्य च ॥

इति चतुर्दशोऽध्यायः