|
1
|
ऊर्ध्व-मूलमधः-शाखं अश्वत्थं प्राहुरव्ययम् ।
छंदांसि यस्य पर्णानि यस्तं वेद स वेद-वित् ॥ |
|
2
|
अधश्चोर्ध्वं च प्रसृतास्तस्य शाखाः
गुण-प्रवृद्धा विषय-प्रवाळाः ।
अधश्च मूलान्यनु-संततानि
कर्मानुबंधीनि मनुष्य-लोके ॥ |
|
3
|
न रूपमस्येह तथोप-लभ्यते
नांतो न चादिर्न च सं-प्रतिष्ठा ।
अश्चत्थमेनं सुविरूढ-मूलं
असंग-शस्त्रेण दृढेन छित्वा ॥ |
|
4
|
ततः परं तत्परिमार्गितव्यं
यस्मिन् गता न निवर्तंति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी ॥ |
|
5
|
निर्मान-मोहा जित-संग-दोषाः
अध्यात्म-नित्या विनिवृत्त-कामाः ।
द्वंद्वैर्वि-मुक्ताः सुख-दुःख-संज्ञैः
गच्छंत्यमूढाः पदमव्ययं तत् ॥ |
|
6
|
न तद्भासयते सूर्यो न शशांको न पावकः ।
यद्गत्वा न निवर्तंते तद्धाम परमं मम ॥ |
|
7
|
ममैवांशो जीव-लोके जीव-भूतः सनातनः ।
मनः-षष्ठानींद्रियाणि प्रकृति-स्थानि कर्षति ॥ |
|
8
|
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गंधानिवाशयात् ॥ |
|
9
|
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुप-सेवते ॥ |
|
10
|
उत्क्रामंतं स्थितं वापि भुंजानं वा गुणान्वितम् ।
विमूढा नानु-पश्यंति पश्यंति ज्ञान-चक्षुषः ॥ |
|
11
|
यतंतो योगिनश्चैनं पश्यंत्यात्मन्यवस्थितम् ।
यतंतोऽप्यकृतात्मानो नैनं पश्यंत्यचेतसः ॥ |
|
12
|
यदादित्य-गतं तेजो जगद् भासयतेऽखिलम् ।
यच्चंद्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ |
|
13
|
गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ |
|
14
|
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापान-समायुक्तः पचाम्यन्नं चतुर्विधम् ॥ |
|
15
|
सर्वस्य चाहं हृदि संनिविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनं च ।
वेदैश्च सर्वैरहमेव वेद्यो
वेदांत-कृद् वेद-विदेव चाहम् ॥ |
|
16
|
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूट-स्थोऽक्षर उच्यते ॥ |
|
17
|
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोक-त्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ |
|
18
|
यस्मात् क्षरमतीतोऽहं अक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ |
|
19
|
यो मामेवमसं-मूढो जानाति पुरुषोत्तमम् ।
स सर्व-विद् भजति मां सर्व-भावेन भारतः ॥ |
|
20
|
इति गुह्य-तमं शास्त्रं इदमुक्तं मयानघ ।
एतद् बुद्ध्वाबुद्धि-मान् स्यात् कृत-कृत्यश्च भारत ॥ |