|
1
|
अभयं सत्त्व-संशुद्धिः ज्ञान-योग-व्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ |
|
2
|
अहिंसा सत्यमक्रोधः त्यागः शांतिरपैशुनम् ।
दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ॥ |
|
3
|
तेजः क्षमा धृतिः शौचं अद्रोहो नाति-मानिता ।
भवंति संपदं दैवीं अभि-जातस्य भारत ॥ |
|
4
|
डंभो दर्पोऽभि-मानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभि-जातस्य पार्थ संपदमासुरीम् ॥ |
|
5
|
दैवी संपद् विमोक्षाय निबंधायाऽसुरी मता ।
मा शुचः संपदं दैवीं अभि-जातोऽसि पांडव ॥ |
|
6
|
द्वौ भूत-सर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्तः आसुरं पार्थ मे शृणु ॥ |
|
7
|
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाऽचारो न सत्यं तेषु विद्यते ॥ |
|
8
|
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्पर-संभूतं किमन्यत् काम-हैतुकम् ॥ |
|
9
|
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्प-बुद्धयः ।
प्रभवंत्युग्र-कर्माणः क्षयाय जगतोऽहिताः ॥ |
|
10
|
काममाश्रित्य दुष्पूरं डंभ-मान-मदान्विताः ।
मोहाद् गृहीत्वाऽसद्-ग्राहान् प्रवर्तंतेऽशुचि-व्रताः ॥ |
|
11
|
चिंतामपरि-मेयां च प्रळयांतामुपाश्रिताः ।
कामोप-भोग-परमाः एतावदिति निश्चिताः ॥ |
|
12
|
आशा-पाश-शतैर्बद्धाः काम-क्रोध-परायणाः ।
ईहंते काम-भोगार्थं अन्यायेनार्थ-संचयान् ॥ |
|
13
|
इदमद्य मया लब्धं इमं प्राप्स्ये मनो-रथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ |
|
14
|
असौ मया हतः शत्रुः हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बल-वान् सुखी ॥ |
|
15
|
आढ्योऽभिजन-वानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञान-विमोहिताः ॥ |
|
16
|
अनेक-चित्त-विभ्रांता मोह-जाल-समावृताः ।
प्रसक्ताः काम-भोगेषु पतंति नरकेऽशुचौ ॥ |
|
17
|
आत्म-संभाविताः स्तब्धाः धन-मान-मदान्विताः ।
यजंते नाम यज्ञैस्ते डंभेनाविधि-पूर्वकम् ॥ |
|
18
|
अहं-कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामात्म-पर-देहेषु प्रद्विषंतोऽभ्यसूयकाः ॥ |
|
19
|
तानहं द्विषतः क्रूरान् सं-सारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभान् आसुरीष्वेव योनिषु ॥ |
|
20
|
आसुरीं योनिमापन्ना मूढा जन्मनि-जन्मनि ।
मामप्राप्यैव कौंतेय ततो यांत्यधमां गतिम् ॥ |
|
21
|
त्रि-विधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभः तस्मादेतत् त्रयं त्यजेत् ॥ |
|
22
|
एतैर्विमुक्तः कौंतेय तमो-द्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयः ततो याति परां गतिम् ॥ |
|
23
|
यः शास्त्र-विधिमुत्सृज्य वर्तते काम-कारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ |
|
24
|
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्य-व्यवस्थितौ ।
ज्ञात्वा शास्त्र-विधानोक्तं कर्म कर्तुमिहार्हसि ॥ |