अथ सप्तदशोऽध्यायः अध्याय १७

अर्जुन उवाच
1 ये शास्त्र-विधिमुत्सृज्य यजंते श्रद्धयाऽन्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥
भगवान् उवाच
2 त्रि-विधा भवति श्रद्धा देहिनां सा स्व-भाव-जा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥
3 सत्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धा-मयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥
4 यजंते सात्त्विका देवान् यक्ष-रक्षांसि राजसाः । प्रेतान् भूत-गणांश्चान्ये यजंते तामसा जनाः ॥
5 अशास्त्र-विहितं घोरं तप्यंते ये तपो जनाः । डंभाहंकार-संयुक्ताः काम-राग-बलान्विताः ॥
6 कर्शयंतः शरीर-स्थं भूत-ग्राममचेतसः । मां चैवांतः-शरीर-स्थं तान् विध्यासुर-निश्चयान् ॥
7 आहारस्त्वपि सर्वस्य त्रि-विधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥
8 आयुस्सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्याः आहाराः सात्त्विक-प्रियाः ॥
9 कट्वम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः । आहारा राजसस्येष्टाः दुःख-शोकामय-प्रदाः ॥
10 यात-यामं गत-रसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामस-प्रियम् ॥
11 अफलाकांक्षिभिर्यज्ञो विधि-दृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥
12 अभि-संधाय तु फलं डंभार्थमपि चैव यत् । इज्यते भरत-श्रेष्ठ तं यज्ञं विद्धि राजसम् ॥
13 विधि-हीनमसृष्टान्नं मंत्र-हीनमदक्षिणम् । श्रद्धा-विरहितं यज्ञं तामसं परि-चक्षते ॥
14 देव-द्विज-गुरु-प्राज्ञ-पूजनं शौचमार्जवम् । ब्रह्म-चर्यमहिंसा च शारीरं तप उच्यते ॥
15 अनुद्वेग-करं वाक्यं सत्यं प्रिय-हितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥
16 मनः-प्रसादः सौम्यत्वं मौनमात्म-विनिग्रहः । भाव-संशुद्धिरित्येतत् तपो मानसमुच्यते ॥
17 श्रद्धया परया तप्तं तपस्तत् त्रि-विधं नरैः । अफलाकांक्षिभिर्युक्तैः सात्त्विकं परि-चक्षते ॥
18 सत्कार-मान-पूजार्थं तपो डंभेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥
19 मूढ-ग्राहेणाऽत्मनो यत् पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥
20 दातव्यमिति यद्दानं दीयतेऽनुप-कारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥
21 यत्तु प्रत्युप-कारार्थं फलमुद्दिश्य वा पुनः । दीयते च परि-क्लिष्टं तद् राजसमुदाहृतम् ॥
22 अदेश-काले यद्दानं अपात्रेभ्यश्च दीयते । असत्कृतमव-ज्ञातं तत्तामसमुदाहृतम् ॥
23 ॐ तत् सदिति निर्देशो ब्रह्मणस्त्रि-विधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥
24 तस्मादोमित्युदाहृत्य यज्ञ-दान-तपः-क्रियाः । प्रवर्तंते विधानोक्ताः सततं ब्रह्म-वादिनाम् ॥
25 तदित्यनभि-संधाय फलं यज्ञ-तपः-क्रियाः । दान-क्रियाश्च विविधाः क्रियंते मोक्ष-कांक्षिभिः ॥
26 सद्भावे साधु-भावे च सदित्येतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥
27 यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभि-धीयते ॥
28 अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत् प्रेत्य नो इह ॥

इति सप्तदशोऽध्यायः