|
1
|
तं तथा कृपयाऽऽविष्टं अश्रु-पूर्णाकुलेक्षणम् ।
विषीदंतमिदं वाक्यं उवाच मधु-सूदनः ॥ |
|
2
|
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्य-जुष्टमस्वर्ग्यं अकीर्ति-करमर्जुन ॥ |
|
3
|
क्लैब्यं मास्म गमः पार्थ नैतत् त्वय्युप-पद्यते ।
क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ परं तप ॥ |
|
अर्जुन
उवाच
|
|
4
|
कथं भीष्ममहं संखे द्रोणं च मधु-सूदन ।
इषुभिः प्रति-योत्स्यामि पूजार्हावरि-सूदन ॥ |
|
5
|
गुरूनहत्वा हि महानु-भावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वाऽर्थ-कामांस्तु गुरूनिहैव
भुंजीय भोगान् रुधिर-प्रदिग्धान् ॥ |
|
6
|
न चैतद् विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामः
तेऽव-स्थिताः प्रमुखे धार्तराष्ट्राः ॥ |
|
7
|
कार्पण्य-दोषोपहत-स्वभावः
पृच्छामि त्वा धर्म-सम्मूढ-चेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ |
|
8
|
न हि प्र-पश्यामि ममाप-नुद्यात्
यच्छोकमुच्छोषणमिंद्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाऽधिपत्यम् ॥ |
|
9
|
एवमुक्त्वा हृषीकेशं गुडाकेशः परं-तपः ।
न योत्स्य इति गोविंदं उक्त्वा तूष्णीं बभूव ह ॥ |
|
10
|
तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदंतमिदं वचः ॥ |
|
11
|
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानु-शोचंति पंडिताः ॥ |
|
12
|
नत्वेवाहं जातु नाऽसं न त्वं नेमे जनाधि-पाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ |
|
13
|
देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहांतर-प्राप्तिः धीरस्तत्र न मुह्यति ॥ |
|
14
|
मात्रा-स्पर्शास्तु कौंतेय शीतोष्ण-सुख-दुःख-दाः ।
आगमापायिनोऽनित्याः तांस्तितिक्षस्व भारत ॥ |
|
15
|
यं हि न व्यथयंत्येते पुरुषं पुरुषर्षभ ।
सम-दुःख-सुखं धीरं सोऽमृत-त्वाय कल्पते ॥ |
|
16
|
नासतो विद्यतेऽभावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोंऽतः त्वनयोस्तत्त्व-दर्शिभिः ॥ |
|
17
|
अविनाशि तु तद् विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति ॥ |
|
18
|
अंत-वंत इमे देहाः नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्र-मेयस्य तस्माद् युध्यस्व भारत ॥ |
|
19
|
य एनं वेत्ति हंतारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हंति न हन्यते ॥ |
|
20
|
न जायते म्रियते वा कदाचित्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥ |
|
21
|
वेदावि-नाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हंति कम् ॥ |
|
22
|
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही ॥ |
|
23
|
नैनं छिंदंति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयंत्यापो न शोषयति मारुतः ॥ |
|
24
|
अच्छेद्योऽयमदाह्योऽयं अक्लेद्योऽशोष्य एव च ।
नित्यः सर्व-गत-स्थाणुः अचलोऽयं सनातनः ॥ |
|
25
|
अव्यक्तोऽयमचिंत्योऽयं अविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानु-शोचितुमर्हसि ॥ |
|
26
|
अथ चैनं नित्य-जातं नित्यं वा मन्यसे मृतम् ।
तथाऽपि त्वं महाबाहो नैनं शोचितुमर्हसि ॥ |
|
27
|
जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च ।
तस्मादपरि-हार्येऽर्थे न त्वं शोचितुमर्हसि ॥ |
|
28
|
अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत ।
अव्यक्त-निधनान्येव तत्र का परि-देवना ॥ |
|
29
|
आश्चर्य-वत् पश्यति कश्चिदेनं
आश्चर्य-वद् वदति तथैव चान्यः ।
आश्चर्य-वच्चॆैनमन्यः शृणोति
श्रुत्वाऽप्येनं वेद नचैव कश्चित् ॥ |
|
30
|
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ |
|
31
|
स्व-धर्ममपि चावेक्ष्य न वि-कंपितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥ |
|
32
|
यदृच्छया चोप-पन्नं स्वर्ग-द्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभंते युद्धमीदृशम् ॥ |
|
33
|
अथ चेत् त्वं धर्म्यमिमं संग्रामं न करिष्यसि ।
ततः स्व-धर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ |
|
34
|
अकीर्तिं चापि भूतानि कथयिष्यंति तेऽव्ययाम् ।
सं-भावितस्य चाकीर्तिः मरणादति-रिच्यते ॥ |
|
35
|
भयाद् रणादुप-रतं मंस्यंते त्वां महारथाः ।
येषां च त्वं बहु-मतो भूत्वा यास्यसि लाघवम् ॥ |
|
36
|
अवाच्य-वादांश्च बहून् वदिष्यंति तवाहिताः ।
निंदंतस्तव सामर्थ्यं ततो दुःख-तरं नु किम् ॥ |
|
37
|
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौंतेय युद्धाय कृत-निश्चयः ॥ |
|
38
|
सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ |
|
39
|
एषा तेऽभि-हिता सांख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्यायुक्तो यया पार्थ कर्म-बंधं प्रहास्यसि ॥ |
|
40
|
नेहाभि-क्रम-नाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ |
|
41
|
व्यवसायात्मिका बुद्धिः एकेह कुरु-नंदन ।
बहु-शाखा ह्यनंताश्च बुद्धयोऽव्यवसायिनाम् ॥ |
|
42
|
यामिमां पुष्पितां वाचं प्रवदंत्यविपश्चितः ।
वेद-वाद-रताः पार्थ नान्यदस्तीति वादिनः ॥ |
|
43
|
कामात्मानः स्वर्ग-परा जन्म-कर्म-फल-प्रदाम् ।
क्रिया-विशेष-बहुलां भोगैश्वर्य-गतिं प्रति ॥ |
|
44
|
भोगैश्वर्य-प्रसक्तानां तयाऽप-हृत-चेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ |
|
45
|
त्रैगुण्य-विषया वेदाः निस्त्रैगुण्यो भवार्जुन ।
निर्द्वंद्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्म-वान् ॥ |
|
46
|
यावानर्थ उद-पाने सर्वतः सं-प्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य वि-जानतः ॥ |
|
47
|
कर्मण्येवाधि-कारस्ते मा फलेषु कदाचन ।
मा कर्म-फल-हेतुर्भूः मा ते संगोऽस्त्वकर्मणि ॥ |
|
48
|
योग-स्थः कुरु कर्माणि संगं त्यक्त्वा धनं-जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ |
|
49
|
दूरेण ह्यवरं कर्म बुद्धि-योगाद् धनं-जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फल-हेतवः ॥ |
|
50
|
बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते ।
तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ |
|
51
|
कर्म-जं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्म-बंध-विनिर्मुक्ताः पदं गच्छंत्यनामयम् ॥ |
|
52
|
यदा ते मोह-कलिलं बुद्धिर्व्यति-तरिष्यति ।
तदा गंतासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ |
|
53
|
श्रुति-विप्रति-पन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिः तदा योगमवाप्स्यसि ॥ |
|
54
|
स्थित-प्रज्ञस्य का भाषा समाधि-स्थस्य केशव ।
स्थित-धीः किं प्र-भाषेत किमासीत व्रजेत किम् ॥ |
|
भगवान्
उवाच
|
|
55
|
प्र-जहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्मन्येवाऽत्मना तुष्टः स्थित-प्रज्ञस्तदोच्यते ॥ |
|
56
|
दुःखेष्वनुद्विग्न-मनाः सुखेषु विगत-स्पृहः ।
वीत-राग-भय-क्रोधः स्थित-धीर्मुनिरुच्यते ॥ |
|
57
|
यः सर्वत्रानभिस्नेहः तत्तत् प्राप्य शुभाशुभम् ।
नाभि नंदति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ |
|
58
|
यदा सं-हरते चायं कूर्मोऽंगानीव सर्वशः ।
इंद्रियाणींद्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ |
|
59
|
विषया विनि-वर्तंते निराहारस्य देहिनः ।
रस-वर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ |
|
60
|
यततो ह्यपि कौंतेय पुरुषस्य विपश्चितः ।
इंद्रियाणि प्रमाथीनि हरंति प्रसभं मनः ॥ |
|
61
|
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येंद्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ |
|
62
|
ध्यायतो विषयान् पुंसः संगस्तेषूप-जायते ।
संगात् संजायते कामः कामात् क्रोधोऽभि-जायते ॥ |
|
63
|
क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृति-विभ्रमः ।
स्मृति-भ्रंशाद् बुद्धि-नाशो बुद्धि-नाशाद् विनश्यति ॥ |
|
64
|
राग-द्वेष-विमुक्तैस्तु विषयानिंद्रियैश्चरन् ।
आत्म-वश्शैर्विधेयात्मा प्रसादमधि-गच्छति ॥ |
|
65
|
प्रसादे सर्व-दुःखानां हानिरस्योप-जायते ।
प्रसन्न-चेतसो ह्याशु बुद्धिः पर्यव-तिष्ठति ॥ |
|
66
|
नास्ति बुद्धिरयुक्तस्य नचायुक्तस्य भावना ॥
नचाभावयतः शांतिः अशांतस्य कुतः सुखम् ॥ |
|
67
|
इंद्रियाणां हि चरतां यन्मनोऽनु विधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवांभसि ॥ |
|
68
|
तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः ।
इंद्रियाणींद्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ |
|
69
|
या निशा सर्व-भूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ |
|
70
|
आपूर्यमाणमचल-प्रतिष्ठं
समुद्रमापः प्रविशंति यद्वत् ।
तद्वत् कामा यं प्रविशंति सर्वे
स शांतिमाप्नोति न काम-कामी ॥ |
|
71
|
विहाय कामान् यः सर्वान् पुमांश्चरति निस्पृहः ।
निर्ममो निरहंकारः स शांतिमधि-गच्छति ॥ |
|
72
|
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य वि-मुह्यति ।
स्थित्वाऽस्यामंत-कालेऽपि ब्रह्म निर्बाणमृच्छति ॥ |