अथ तृतीयोऽध्यायः अध्याय ३

अर्जुन उवाच
1 ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन । तत् किं कर्मणि घोरे मां नि-योजयसि केशव ॥
2 व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥
भगवान् उवाच
3 लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम्
4 न कर्मणामनारंभात् नैष्कर्म्यं पुरुषोऽश्नुते । न च सं-न्यसनादेव सिद्धिं समधि-गच्छति ॥
5 न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्म-कृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृति-जैर्गुणैः ॥
6 कर्मेंद्रियाणि संयम्य य आस्ते मनसा चरन् । इंद्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥
7 यस्त्विंद्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेंद्रियैः कर्म-योगं असक्तः स विशिष्यते ॥
8 नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीर-यात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥
9 यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्म-बंधनः । तदर्थं कर्म कौंतेय मुक्त-संगः समाचर ॥
10 सह-यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजा-पतिः । अनेन प्र-सविष्यध्वं एष वोऽस्त्विष्ट-काम-धुक् ॥
11 देवान् भावयतानेन ते देवा भावयंतु वः । परस्परं भावयंतः श्रेयः परमवाप्स्यथ ॥
12 इष्टान् भोगान् हि वो देवाः दास्यंते यज्ञ-भाविताः । तैर्दत्तानप्रदायैभ्यो यो भुंक्ते स्तेन एव सः ॥
13 यज्ञ-शिष्टाशिनः संतो मुच्यंते सर्व-किल्बिषैः । भुंजते ते त्वघं पापाः ये पचंत्यात्म-कारणात् ॥
14 अन्नाद् भवंति भूतानि पर्जन्यादन्न-संभवः । यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ॥
15 कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर-समुद्भवम् ॥ तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्र-तिष्ठितम् ॥
16 एवं प्र-वर्तितं चक्रं नानु-वर्तयतीह यः । अघायुरिंद्रियारामो मोघं पार्थ स जीवति ॥
17 यस्त्वात्म-रतिरेव स्यात् आत्म-तृप्तश्च मानवः । आत्मन्येव च संतुष्टः तस्य कार्यं न विद्यते ॥
18 नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । नचास्य सर्व-भूतेषु कश्चिदर्थ-व्यपाश्रयः ॥
19 तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥
20 कर्मणैव हि संसिद्धिं आस्थिता जनकादयः । लोक-सं-ग्रहमेवापि सं-पश्यन् कर्तुमर्हसि ॥
21 यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः । स यत् प्रमाणं कुरुते लोकस्तदनु-वर्तते ॥
22 न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥
23 यदि ह्यहं न वर्तेयं जातु कर्मण्यतंद्रितः । मम वर्त्मानु-वर्तंते मनुष्याः पार्थ सर्वशः ॥
24 उत्सीदेयुरिमे लोकाः न कुर्यां कर्म चेदहम् । संकरस्य च कर्ता स्यां उपहन्यामिमाः प्रजाः ॥
25 सक्ताः कर्मण्यविद्वांसो यथा कुर्वंति भारत ॥ कुर्याद् विद्वांस्तथासक्तः चिकीर्षुर्लोक-संग्रहम् ॥
26 न बुद्धि-भेदं जनयेत् अज्ञानां कर्म-संगिनाम् । जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥
27 प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकार-विमूढात्मा कर्ताहमिति मन्यते ॥
28 तत्त्व-वित्तु महाबाहो गुण-कर्म-विभागयोः । गुणा गुणेषु वर्तंते इति मत्वा न सज्जते ॥
29 प्रकृतेर्गुण-सम्मूढाः सज्जंते गुण-कर्मसु । तानकृत्स्न-विदो मंदान् कृत्स्न-विन्न विचालयेत् ॥
30 मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥
31 ये मे मतमिदं नित्यं अनु-तिष्ठंति मानवाः । श्र्रद्धावंतोऽनसूयंतो मुच्यंते तेऽपि कर्मभिः ॥
32 ये त्वेतदभ्यसूयंतो नानु-तिष्ठंति मे मतम् । सर्व-ज्ञान-विमूढांस्तान् विद्धि नष्टानचेतसः ॥
33 सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञान-वानपि । प्रकृतिं यांति भूतानि निग्रहः किं करिष्यति ॥
34 इंद्रियस्येंद्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत् तौ ह्यस्य परि-पंथिनौ ॥
35 श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् । स्व-धर्मे निधनं श्रेयः पर-धर्मो भयावहः ॥
अर्जुन उवाच
36 अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥
भगवान् उवाच
37 काम एषः क्रोध एषः रजोगुण-समुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥
38 धूमेनाव्रियते वह्निः यथादर्शो मलेन च । यथोल्बेनावृतो गर्भः तथा तेनेदमावृतम् ॥
39 आवृतं ज्ञानमेतेन ज्ञानिनो नित्य-वैरिणा । काम-रूपेण कौंतेय दुष्पूरेणानलेन च ॥
40 इंद्रियाणि मनो बुद्धिः अस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येषः ज्ञानमावृत्य देहिनम् ॥
41 तस्मात् त्वमिंद्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञान-विज्ञान-नाशनम् ॥
42 इंद्रियाणि पराण्याहुः इंद्रियेभ्यः परं मनः । मनस्तस्तु परा बुद्धिः यो बुद्धेः परतस्तु सः ॥
43 एवं बुद्धेः परं बुद्ध्वासंस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो काम-रूपं दुरासदम् ॥

इति तृतीयोऽध्यायः