अथ चतुर्थोऽध्यायः अध्याय ४

1 इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥
2 एवं परंपरा-प्राप्तं इमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परं-तप ॥
3 स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥
अर्जुन उवाच
4 अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद् वि-जानीयां त्वमादौ प्रोक्तवानिति ॥
भगवान् उवाच
5 बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परं तप ॥
6 अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सं-भवाम्यात्म-मायया ॥
7 यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥
8 परि-त्राणाय साधूनां वि-नाशाय च दुष्कृताम् । धर्म-सं-स्थापनार्थाय सं-भवामि युगे-युगे ॥
9 जन्म कर्म च मे दिव्यं एवं यो वेत्ति तत्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥
10 वीत-राग-भय-क्रोधाः मन्मया मामुपाश्रिताः । बहवो ज्ञान-तपसा पूता मद्भावमागताः ॥
11 ये यथा मां प्रपद्यंते तांस्तथैव भजाम्यहम् । मम वर्त्मानु-वर्तंते मनुष्याः पार्थ सर्वशः ॥
12 कांक्षंतः कर्मणां सिद्धिं यजंत इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्म-जा ॥
13 चातुर्वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥
14 न मां कर्माणि लिंपंति न मे कर्म-फले स्पृहा । इति मां योऽभि-जानाति कर्मभिर्न स बध्यते ॥
15 एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्व-तरं कृतम् ॥
16 किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यज्ञत्वा मोक्ष्यसेऽशुभात् ॥
17 कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च वि-कर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥
18 कर्मण्यकर्म यः पश्येत् अकर्मणि च कर्म यः । स बुद्धि-मान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥
19 यस्य सर्वे समारंभाः काम-संकल्प-वर्जिताः । ज्ञानाग्नि-दग्ध-कर्माणं तमाहुः पंडितं बुधाः ॥
20 त्यक्त्वा कर्म-फलासंगं नित्य-तृप्तो निराश्रयः । कर्मण्यभि-प्रवृत्तोऽपि नैव किंचित् करोति सः ॥
21 निराशीर्यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः । शारीरं केवलं कर्म कुर्वन् नाऽप्नोति किल्बिषम् ॥
22 यदृच्छा-लाभ-संतुष्टो द्वंद्वातीतो वि-मत्सरः । समः सिद्धावसिद्धौ च कृत्वाऽपि न नि-बद्ध्यते ॥
23 गत-संगस्य मुक्तस्य ज्ञानावस्थित-चेतसः । यज्ञायाऽचरतः कर्म समग्रं प्रवि-लीयते ॥
24 ब्रह्मार्पणं ब्रह्म-हविः ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मॆैव तेन गंतव्यं ब्रह्म-कर्म-समाधिना ॥
25 दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोप-जुह्वति ॥
26 श्रोत्रादीनींद्रियाण्यन्ये सं-यमाग्निषु जुह्वति । शब्दादीन् विषयानन्ये इंद्रियाग्निषु जुह्वति ॥
27 सर्वाणींद्रिय-कर्माणि प्राण-कर्माणि चापरे । आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥
28 द्रव्य-यज्ञास्तपो-यज्ञाः योग-यज्ञास्तथा परे । स्वाध्याय-ज्ञान-यज्ञाश्च यतयः संशित-व्रताः ॥
29 अपाने जुह्वति प्राणं प्राणेऽपानं तथा परे । प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥
30 अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ॥
31 यज्ञ-शिष्टामृत-भुजो यांति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरु-सत्तम ॥
32 एवं बहु-विधा यज्ञाः वितता ब्रह्मणो मुखे । कर्म-जान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥
33 श्रेयान् द्रव्य-मयाद् यज्ञात् ज्ञान-यज्ञः परं-तप । सर्वं कर्माखिलं पार्थ ज्ञाने परि-समाप्यते ॥
34 तद् विद्धि प्रणिपातेन परि-प्रश्नेन सेवया । उपदेक्ष्यंति ते ज्ञानं ज्ञानिनस्तत्त्व-दर्शिनः ॥
35 यज्ज्ञात्वा न पुनर्मोहं एवं यास्यसि पांडव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥
36 अपि चेदसि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वं ज्ञान-प्लवेनैव वृजिनं सं-तरिष्यसि ॥
37 यथैधांसि समिद्धोऽग्निः भस्मसात् कुरुतेऽर्जुन । ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥
38 न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत् स्वयं योग-संसिद्धः कालेनाऽत्मनि विंदति ॥
39 श्रद्धा-वान् लभते ज्ञानं मत्परः सं-यतेंद्रियः । ज्ञानं लब्ध्वा परां शांतिं अचिरेणाधि-गच्छति ॥
40 अज्ञश्चाश्रद्दधानश्च संशयात्मा वि-नश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥
41 योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् । आत्म-वंतं न कर्माणि नि-बध्नंति धनं-जय ॥
42 तस्मादज्ञान-संभूतं हृत्-स्थं ज्ञानासिनाऽऽत्मनः । छित्वैनं संशयं योगं आतिष्ठोत्तिष्ठ भारत ॥

इति चतुर्थोऽध्यायः