|
अर्जुन
उवाच
|
|
1
|
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सु-निश्चितम् ॥ |
|
भगवान्
उवाच
|
|
2
|
संन्यासः कर्म-योगश्च निःश्रेयस-करावुभौ ।
तयोस्तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ॥ |
|
3
|
ज्ञेयः स नित्य-संन्यासी यो न द्वेष्टि न कांक्षति ।
निर्द्वंद्वो हि महाबाहो सुखं बंधात् प्रमुच्यते ॥ |
|
4
|
सांख्य-योगौ पृथग् बालाः प्र-वदंति न पंडिताः ।
एकमप्यास्थितः सम्यक् उभयोर्विंदते फलम् ॥ |
|
5
|
यत् सांख्यैः प्राप्यते स्थानं तद् योगैरपि गम्यते ।
एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥ |
|
6
|
सं-न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योग-युक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥ |
|
7
|
योग-युक्तो वि-शुद्धात्मा वि-जितात्मा जितेंद्रियः ।
सर्व-भूतात्म-भूतात्मा कुर्वन्नपि न लिप्यते ॥ |
|
8
|
नैव किंचित् करोमीति युक्तो मन्येत तत्त्व-वित् ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥ |
|
9
|
प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन्नपि ।
इंद्रियाणींद्रियार्थेषु वर्तंत इति धारयन् ॥ |
|
10
|
ब्रह्मण्याधाय कर्माणि संगं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्म-पत्रमिवांभसा ॥ |
|
11
|
कायेन मनसा बुद्ध्या केवलैरिंद्रियैरपि ।
योगिनः कर्म कुर्वंति संगं त्यक्त्वाऽऽत्म-शुद्धये ॥ |
|
12
|
युक्तः कर्म-फलं त्यक्त्वा शांतिमाप्नोति नैष्ठिकीम् ।
अयुक्तः काम-कारेण फले सक्तो नि-बद्ध्यते ॥ |
|
13
|
सर्व-कर्माणि मनसा सन्न्यस्याऽस्ते सुखं वशी ।
नव-द्वारे पुरे देही नैव कुर्वन् न कारयन् ॥ |
|
14
|
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्म-फल-संयोगं स्व-भावस्तु प्र-वर्तते ॥ |
|
15
|
नाऽदत्ते कस्य-चित् पापं न चैव सु-कृतं विभुः ।
अज्ञानेनाऽवृतं ज्ञानं तेन मुह्यंति जंतवः ॥ |
|
16
|
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्र-काशयति तत् परम् ॥ |
|
17
|
तद्बुद्धयस्तदात्मानः तन्निष्ठास्तत्परायणाः ।
गच्छंत्यपुनरावृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥ |
|
18
|
विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पंडिताः सम-दर्शिनः ॥ |
|
19
|
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ |
|
20
|
न प्र-हृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।
स्थिर-बुद्धिरसम्मूढो ब्रह्म-विद् ब्रह्मणि स्थितः ॥ |
|
21
|
बाह्य-स्पर्शेष्वसक्तात्मा विंदत्यात्मनि यत् सुखम् ।
स ब्रह्म-योग-युक्तात्मा सुखमक्षयमश्नुते ॥ |
|
22
|
ये हि सं-स्पर्शजा भोगाः दुःख-योनय एव ते ।
आद्यंतवंतः कौंतेय न तेषु रमते बुधः ॥ |
|
23
|
शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् ।
काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ |
|
24
|
योऽंतः-सुखोऽंतरारामः तथांऽतर्ज्योतिरेव यः ।
स योगी ब्रह्म निर्बाणं ब्रह्म-भूतोऽधि-गच्छति ॥ |
|
25
|
लभंते ब्रह्म निर्बाणं ऋषयः क्षीण-कल्मषाः ।
छिन्नद्वॆैधा यतात्मानः सर्व-भूत-हिते रताः ॥ |
|
26
|
काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् ।
अभितो ब्रह्म निर्बाणं वर्तते विदितात्मनाम् ॥ |
|
27
|
स्पर्शान् कृत्वा बहिर्बाह्यान् चक्षुश्चैवांतरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यंतर-चारिणौ ॥ |
|
28
|
यतेंद्रिय-मनोवृत्तिः मुनिर्मोक्ष-परायणः ।
वि-गतेच्छा-भय-क्रोधो यः सदा मुक्त एव सः ॥ |
|
29
|
भोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम् ।
सुहृदं सर्व-भूतानां ज्ञात्वा मां शांतिमृच्छति ॥ |