|
1
|
अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः ।
स सं-न्यासी च योगी च न निरग्निर्न चाक्रियः ॥ |
|
2
|
यं सं-न्यासमिति प्राहुः योगं तं विद्धि पांडव ।
नह्यसं-न्यस्त-संकल्पो योगी भवति कश्चन ॥ |
|
3
|
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ |
|
4
|
यदा हि नेंद्रियार्थेषु न कर्मस्वनु-षज्जते ।
सर्व-संकल्प-संन्यासी योगारूढस्तदोच्यते ॥ |
|
5
|
उद्धरेदात्मनाऽऽत्मानं नाऽत्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बंधुः आत्मैव रिपुरात्मनः ॥ |
|
6
|
बंधुरात्माऽऽत्मनस्तस्य येनाऽत्मैवाऽत्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेताऽत्मैव शत्रु-वत् ॥ |
|
7
|
जितात्मनः प्रशांतस्य परमात्मा समाहितः ।
शीतोष्ण-सुख-दुःखेषु तथा मानाप-मानयोः ॥ |
|
8
|
ज्ञान-विज्ञान-तृप्तात्मा कूट-स्थो विजितेंद्रियः ।
युक्त इत्युच्यते योगी सम-लोष्टाश्म-कांचनः ॥ |
|
9
|
सुहृन्मित्रार्युदासीन-मध्यस्थ-द्वेष्य-बंधुषु ।
साधुष्वपि च पापेषु सम-बुद्धिर्विशिष्यते ॥ |
|
10
|
योगी युंजीत सततं आत्मानं रहसि स्थितः ।
एकाकी यत-चित्तात्मा निराशीरपरि-ग्रहः ॥ |
|
11
|
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नाति-नीचं चेलाजिन-कुशोत्तरम् ॥ |
|
12
|
तत्रैकाग्रं मनः कृत्वा यत-चित्तेंद्रिय-क्रियः ।
उपविश्याऽसने युंज्यात् योगमात्म-विशुद्धये ॥ |
|
13
|
समं काय-शिरो-ग्रीवं धारयन्नचलं स्थिरः ।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानव-लोकयन् ॥ |
|
14
|
प्र-शांतात्मा विगत-भीः ब्रह्म-चारि-व्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ |
|
15
|
युंजन्नेवं सदाऽऽत्मानं योगी नियत-मानसः ।
शांतिं निर्बाण-परमां मत्संस्थामधि-गच्छति ॥ |
|
16
|
नात्यश्नतस्तु योगोऽस्ति न चात्यंतमनश्नतः ।
न चाति-स्वप्न-शीलस्य जाग्रतो नैव चार्जुन ॥ |
|
17
|
युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु ।
युक्त-स्वप्नाव-बोधस्य योगो भवति दुःख-हा ॥ |
|
18
|
यदा वि-नियतं चित्तं आत्मन्येवाव-तिष्ठते ।
निस्पृहः सर्व-कामेभ्यो युक्त इत्युच्यते तदा ॥ |
|
19
|
यथा दीपो निवात-स्थो नेंगते सोपमा मता ।
योगिनो यत-चित्तस्य युंजतो योगमात्मनः ॥ |
|
20
|
यत्रोप-रमते चित्तं नि-रुद्धं योग-सेवया ।
यत्र चैवाऽत्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति ॥ |
|
21
|
सुखमात्यंतिकं यत्तत् बुद्धि-ग्राह्यमतींद्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ |
|
22
|
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन् स्थितो न दुःखेन गुरुणाऽपि वि-चाल्यते ॥ |
|
23
|
तं विद्याद् दुःख-संयोग-वियोगं योग-संज्ञितम् ।
स निश्चयेन योक्तव्यो योगो निर्विण्ण-चेतसा ॥ |
|
24
|
संकल्प-प्रभवान् कामान् त्यक्त्वा सर्वानशेषतः ।
मनसैवेंद्रिय-ग्रामं वि-नियम्य समंततः ॥ |
|
25
|
शनैः-शनैरुप-रमेत् बुद्ध्याधृति-गृहीतया ।
आत्म-संस्थं मनः कृत्वा न किंचिदपि चिंतयेत् ॥ |
|
26
|
यतो यतो निश्चरति मनश्चंचलमस्थिरम् ।
ततस्ततो नियम्यैतत् आत्मन्येव वशं नयेत् ॥ |
|
27
|
प्रशांत-मनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शांत-रजसं ब्रह्म-भूतमकल्मषम् ॥ |
|
28
|
एवं युंजन् सदात्मानं योगी विगत-कल्मषः ।
सुखेन ब्रह्म-संस्पर्शं अत्यंतं सुखमश्नुते ॥ |
|
29
|
सर्व-भूत-स्थमात्मानं सर्व-भूतानि चाऽत्मनि ।
ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः ॥ |
|
30
|
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ |
|
31
|
सर्व-भूत-स्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ |
|
32
|
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ |
|
अर्जुन
उवाच
|
|
33
|
योऽयं योगस्त्वया प्रोक्तः साम्येन मधु-सूदन ।
एतस्याहं न पश्यामि चंचलत्वात् स्थितिं स्थिराम् ॥ |
|
34
|
चंचलं हि मनः कृष्ण प्रमाथि बल-वद् दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सु-दुष्करम् ॥ |
|
भगवान्
उवाच
|
|
35
|
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौंतेय वैराग्येण च गृह्यते ॥ |
|
36
|
असं-यतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु सततं शक्योऽवाप्तुमशेषतः ॥ |
|
अर्जुन
उवाच
|
|
37
|
अयतिः श्रद्धयोपेतो योगाच्चलित-मानसः ।
अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ॥ |
|
38
|
कच्चिन्नोभय-विभ्रष्टः छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ |
|
39
|
एतन्मे संशयं कृष्ण च्छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ |
|
भगवान्
उवाच
|
|
40
|
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
नहि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ॥ |
|
41
|
प्राप्य पुण्य-कृतां लोकान् उषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योग-भ्रष्टोऽभि-जायते ॥ |
|
42
|
अथवा योगिनामेव कुले भवति धी-मताम् ।
एतद्धि दुर्लभ-तरं लोके जन्म यदीदृशम् ॥ |
|
43
|
तत्र तं बुद्धि-संयोगं लभते पौर्वदैहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरु-नंदन ॥ |
|
44
|
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्द-ब्रह्माति-वर्तते ॥ |
|
45
|
प्रयत्नाद् यतमानस्तु योगी संशुद्ध-किल्बिषः ।
अनेक-जन्म-संसिद्धः ततो याति परां गतिम् ॥ |
|
46
|
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद् योगी भवार्जुन ॥ |
|
47
|
योगिनामपि सर्वेषां मद्गतेनांतरात्मना ।
श्र्रद्धा-वान् भजते यो मां स मे युक्त-तमो मतः ॥ |