|
1
|
मय्यासक्त-मनाः पार्थ योगं युंजन् मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ |
|
2
|
ज्ञानं तेऽहं स-विज्ञानं इदं वक्ष्याम्यशेषतः ।
यजाज्ञत्वा नेह भूयोऽन्यत् ज्ञातव्यमव-शिष्यते ॥ |
|
3
|
मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ |
|
4
|
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहं-कार इतीयं मे भिन्ना प्रकृतिरष्ट-धा ॥ |
|
5
|
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीव-भूतां महाबाहो ययेदं धार्यते जगत् ॥ |
|
6
|
एतद्योनीनि भूतानि सर्वाणीत्युप-धारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रळयस्तथा ॥ |
|
7
|
मत्तः पर-तरं नान्यत् किंचिदस्ति धनं-जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणि-गणा इव ॥ |
|
8
|
रसोऽहमप्सु कौंतेय प्रभाऽस्मि शशि-सूर्ययोः ।
प्रणवः सर्व-वेदेषु शब्दः खे पौरुषं नृषु ॥ |
|
9
|
पुण्यो गंधः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्व-भूतेषु तपश्चास्मि तपस्विषु ॥ |
|
10
|
बीजं मां सर्व-भूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धि-मतामस्मि तेजस्तेजस्विनामहम् ॥ |
|
11
|
बलं बल-वतां चाहं काम-राग-विवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ |
|
12
|
ये चैव सात्त्विका भावाः राजसास्तामसाश्च ये ।
मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥ |
|
13
|
त्रिभिर्गुण-मयैर्भावैः एभिः सर्वमिदं जगत् ।
मोहितं नाभि-जानाति मामेभ्यः परमव्ययम् ॥ |
|
14
|
दैवी ह्येषा गुण-मयी मम माया दुरत्यया ।
मामेव ये प्र-पद्यंते मायामेतां तरंति ते ॥ |
|
15
|
न मां दुष्कृतिनो मूढाः प्र-पद्यंते नराधमाः ।
माययाऽप-हृत-ज्ञानाः आसुरं भावमाश्रिताः ॥ |
|
16
|
चतुर्विधा भजंते मां जनाः सु-कृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ |
|
17
|
तेषां ज्ञानी नित्य-युक्तः एक-भक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थं अहं स च मम प्रियः ॥ |
|
18
|
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ |
|
19
|
बहूनां जन्मनामंते ज्ञान-वान् मां प्र-पद्यते ।
वासु-देवः सर्वमिति स महात्मा सु-दुर्लभः ॥ |
|
20
|
कामैस्तैस्तैर्हृत-ज्ञानाः प्र-पद्यंतेऽन्य-देवताः ।
तं-तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ |
|
21
|
यो-यो यां-यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति ।
तस्य-तस्याचलां श्रद्धां तामेव वि-दधाम्यहम् ॥ |
|
22
|
स तया श्रद्धया युक्तः तस्याऽराधनमीहते ।
लभते च ततः कामान् मयैव विहितान् हितान् ॥ |
|
23
|
अंत-वत्तु फलं तेषां तद् भवत्यल्प-चेतसाम् ।
देवान् देव-यजो यांति मद्भक्ता यांति मामपि ॥ |
|
24
|
अव्यक्तं व्यक्तिमापन्नं मन्यंते मामबुद्धयः ।
परं भावमजानंतो ममाव्ययमनुत्तमम् ॥ |
|
25
|
नाहं प्रकाशः सर्वस्य योग-माया-समावृतः ।
मूढोऽयं नाभि-जानाति लोको मामजमव्ययम् ॥ |
|
26
|
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ |
|
27
|
इच्छा-द्वेष-समुत्थेन द्वंद्व-मोहेन भारत ।
सर्व-भूतानि सम्मोहं सर्गे यांति परं तप ॥ |
|
28
|
येषां त्वंत-गतं पापं जनानां पुण्य-कर्मणाम् ।
ते द्वंद्व-मोह-निर्मुक्ताः भजंते मां दृढ-व्रताः ॥ |
|
29
|
जरा-मरण-मोक्षाय मामाश्रित्य यतंति ये ।
ते ब्रह्म तद् विदुः कृत्स्नं अध्यात्मं कर्म चाखिलम् ॥ |
|
30
|
साधि-भूताधि-दैवं मां साधि-यज्ञं च ये विदुः ।
प्रयाण-कालेऽपि च मां ते विदुर्युक्त-चेतसः ॥ |