अथ दशमोऽध्यायः अध्याय १०

1 भूय एव महा-बाहो शृणु मे परमं वचः । यत् तेऽहं प्रीयमाणाय वक्ष्यामि हित-काम्यया ॥
2 न मे विदुः सुर-गणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥
3 यो मामजमनादिं च वेत्ति लोक-महेश्वरम् । असम्मूढः स मर्त्येषु सर्व-पापैः प्रमुच्यते ॥
4 बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥
5 अहिंसा समता तुष्टिः तपो दानं यशोऽयशः । भवंति भावा भूतानां मत्त एव पृथग्विधाः ॥
6 महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाताः येषां लोक इमाः प्रजाः ॥
7 एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽवि-कंपेन योगेन युज्यते नात्र संशयः ॥
8 अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजंते मां बुधा भाव-समन्विताः ॥
9 मच्चित्ता मद्गत-प्राणाः बोधयंतः परस्परम् । कथयंतश्च मां नित्यं तुष्यंति च रमंति च ॥
10 तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । ददामि बुद्धि-योगं तं येन मामुपयांति ते ॥
11 तेषामेवानु-कंपार्थं अहमज्ञान-जं तमः । नाशयाम्यात्म-भावस्थो ज्ञान-दीपेन भास्वता ॥
अर्जुन उवाच
12 परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यं आदि-देवमजं विभुम् ॥
13 आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥
14 सर्वमेतदृतं मन्ये यन्मां वदसि केशव । नहि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः ॥
15 स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम । भूत-भावन भूतेश देव-देव जगत्पते ॥
16 वक्तुमर्हस्यशेषेण दिव्या ह्यात्म-विभूतयः । याभिर्विभूतिभिर्लोकान् इमांस्त्वं व्याप्य तिष्ठसि ॥
17 कथं विद्यामहं योगिन् त्वां सदा परि-चिंतयन् । केषु-केषु च भावेषु चिंत्योऽसि भगवन् मया ॥
18 विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥
भगवान् उवाच
19 हंत ते कथयिष्यामि दिव्या ह्यात्म-विभूतयः । प्राधान्यतः कुरु-श्रेष्ठ नास्त्यंतो विस्तरस्य मे ॥
20 अहमात्मा गुडाकेश सर्व-भूताशय-स्थितः । अहमादिश्च मध्यं च भूतानामंत एव च ॥
21 आदित्यानामहं विष्णुः ज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥
22 वेदानां साम-वेदोऽस्मि देवानामस्मि वासवः । इंद्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥
23 रुद्राणां शंकरश्चास्मि वित्तेशो यक्ष-रक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥
24 पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कंदः सरसामस्मि सागरः ॥
25 महर्षीणां भृगुरहं गिरामस्म्यैकमक्षरम् । यज्ञानां जप-यज्ञोऽस्मि स्थावराणां हिमालयः ॥
26 अश्वत्थः सर्व-वृक्षाणां देवर्षीणां च नारदः । गंधर्वाणां चित्र-रथः सिद्धानां कपिलो मुनिः ॥
27 उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेंद्राणां नराणां च नराधिपम् ॥
28 आयुधानामहं वज्रं धेनूनामस्मि काम-धुक् । प्रजनश्चास्मि कंदर्पः सर्पाणामस्मि वासुकिः ॥
29 अनंतश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥
30 प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । मृगाणां च मृगेंद्रोऽहं वैनतेयश्च पक्षिणाम् ॥
31 पवनः पवतामस्मि रामः शस्त्र-भृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥
32 सर्गाणामादिरंतश्च मध्यं चैवाहमर्जुन । अध्यात्म-विद्या विद्यानां वादः प्रवदतामहम् ॥
33 अक्षराणामकारोऽस्मि द्वंद्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताऽहं विश्वतो-मुखः ॥
34 मृत्युः सर्व-हरश्चाहं उद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥
35 बृहत्साम तथा साम्नां गायत्त्री छंदसामहम् । मासानां मार्ग-शीर्षोऽहं ऋतूनां कुसुमाकरः ॥
36 द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्वं सत्त्व-वतामहम् ॥
37 वृष्णीनां वासु-देवोऽस्मि पांडवानां धनं-जयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥
38 दंडो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञान-वतामहम् ॥
39 यच्चापि सर्व-भूतानां बीजं तदहमर्जुन । न तदस्ति विना यत् स्यात् मया भूतं चराचरम् ॥
40 नांतोऽस्ति मम दिव्यानां विभूतीनां परं तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥
41 यद्यद् विभूति-मत् सत्वं श्री-मदूर्जितमेव वा । तत्तदेवाव-गच्छ त्वं मम तेजोऽंश-संभवम् ॥
42 अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितो जगत् ॥

इति दशमोऽध्यायः