|
अर्जुन
उवाच
|
|
1
|
मदनुग्रहाय परमं गुह्यमध्यात्म-संज्ञितम् ।
यत् त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ |
|
2
|
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमल-पत्राक्ष माहात्म्यमपि चाव्ययम् ॥ |
|
3
|
एवमेतद् यथाऽऽत्थ त्वं आत्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपं ऐश्वरं पुरुषोत्तम ॥ |
|
4
|
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयाऽत्मानमव्ययम् ॥ |
|
भगवान्
उवाच
|
|
5
|
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नाना-विधानि दिव्यानि नाना-वर्णाकृतीनि च ॥ |
|
6
|
पश्याऽदित्यान् वसून् रुद्रान् अश्विनौ मरुतस्तथा ।
बहून्यदृष्ट-पूर्वाणि पश्याऽश्चर्याणि भारत ॥ |
|
7
|
इहैक-स्थं जगत् कृत्स्नं पश्याद्य स-चराचरम् ।
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥ |
|
8
|
नतु मां शक्यसे द्रष्टुं अनेनैव स्व-चक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ |
|
9
|
एवमुक्त्वा ततो राजन् महा-योगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ |
|
10
|
अनेक-वक्त्र-नयनं अनेकाद्भुत-दर्शनम् ।
अनेक-दिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ |
|
11
|
दिव्य-माल्यांबर-धरं दिव्य-गंधानु-लेपनम् ।
सर्वाश्चर्य-मयं देवं अनंतं विश्वतो-मुखम् ॥ |
|
12
|
दिवि सूर्य-सहस्रस्य भवेद् युगपदुत्थिता ।
यदि भाः सदृशी सा स्यात् भासस्तस्य महात्मनः ॥ |
|
13
|
तत्रैक-स्थं जगत् कृत्स्नं प्रविभक्तमनेक-धा ।
अपश्यद् देव-देवस्य शरीरे पांडवस्तदा ॥ |
|
14
|
ततः स विस्मयाविष्टो हृष्ट-रोमा धनं-जयः ।
प्रणम्य शिरसा देवं कृतांजलिरभाषत ॥ |
|
15
|
पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूत-विशेष-संघान् ।
ब्रह्माणमीशं कमलासन-स्थं
ऋषींश्च सर्वानुरगांश्च दिव्यान् ॥ |
|
16
|
अनेक-बाहूदर-वक्त्र-नेत्रं
पश्यामि त्वां सर्वतोऽनंत-रूपम् ।
नांतं न मध्यं न पुनस्तवाऽदिं
पश्यामि विश्वेश्वर विश्व-रूप ॥ |
|
17
|
किरीटिनं गदिनं चक्रिणं च
तेजो-राशिं सर्वतो दीप्ति-मंतम् ।
पश्यामि त्वा दुर्निरीक्ष्यं समंतात्
दीप्तानलार्क-द्युतिमप्रमेयम् ॥ |
|
18
|
त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वत-धर्म-गोप्ता
सनातनस्त्वं पुरुषो मतो मे ॥ |
|
19
|
अनादि-मध्यांतमनंत-वीर्यं
अनंत-बाहुं शशि-सूर्य-नेत्रम् ।
पश्यामि त्वा दीप्त-हुताश-वक्त्रं
स्व-तेजसा विश्वमिदं तपंतम् ॥ |
|
20
|
द्यावा-पृथिव्योरिदमंतरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं
लोक-त्रयं प्रव्यथितं महात्मन् ॥ |
|
21
|
अमी हि त्वासुर-संघा विशंति
केचिद् भीताः प्रांजलयो गृणंति ।
स्वस्तीत्युक्त्वा महर्षि-सिद्ध-संघाः
स्तुवंति त्वा स्तुतिभिः पुष्कळाभिः ॥ |
|
22
|
रुद्रादित्या वसवो ये च साध्याः
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गंधर्व-यक्षासुर-सिद्ध-संघाः
वीक्षंते त्वा विस्मिताश्चैव सर्वे ॥ |
|
23
|
रूपं महत्ते बहु-वक्त्र-नेत्रं
महा-बाहो बहु-बाहूरु-पादम् ।
बहूदरं बहु-दंष्ट्रा-कराळं
दृष्ट्वा लोकाः प्र-व्यथितास्तथाऽहम् ॥ |
|
24
|
नभः-स्पृशं दीप्तमनेक-वर्णं
व्यात्ताननं दीप्त-विशाल-नेत्रम् ।
दृष्ट्वाहि त्वा प्र-व्यथितांतरात्मा
धृतिं न विंदामि शमं च विष्णो ॥ |
|
25
|
दंष्ट्रा-कराळानि च ते मुखानि
दृष्ट्वैव कालानल-सन्निभानि ।
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्निवास ॥ |
|
26
|
अमी च त्वा धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनि-पाल-संघैः ।
भीष्मो द्रोणः सूत-पुत्रस्तथाऽसौ
सहास्मदीयैरपि योध-मुख्यैः ॥ |
|
27
|
वक्त्राणि ते त्वरमाणा विशंति
दंष्ट्रा-कराळानि भयानकानि ।
केचिद् विलग्ना दशनांतरेषु
संदृश्यंते चूर्णितैरुत्तमांगैः ॥ |
|
28
|
यथा नदीनां बहवोंऽबु-वेगाः
समुद्रमेवाभि-मुखा द्रवंति ।
तथा तवामी नर-लोक-वीराः
विशंति वक्त्राण्यभि-विज्वलंति ॥ |
|
29
|
यथा प्रदीप्तं ज्वलनं पतंगाः
विशंति नाशाय समृद्ध-वेगाः ।
तथैव नाशाय विशंति लोकाः
तवापि वक्त्राणि समृद्ध-वेगाः ॥ |
|
30
|
लेलिह्यसे ग्रस-मानः समंतात्
लोकान् समग्रान् वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत् समग्रं
भासस्तवोग्राः प्रतपंति विष्णो ॥ |
|
31
|
आख्याहि मे को भवानुग्र-रूपो
नमोऽस्तु ते देव-वर प्रसीद ।
विज्ञातुमिच्छामि भवंतमाद्यं
न हि प्रजानामि तव प्रवृत्तिम् ॥ |
|
भगवान्
उवाच
|
|
32
|
कालोऽस्मि लोक-क्षय-कृत् प्रवृद्धो
लोकान् समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वा न भविष्यंति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ |
|
33
|
तस्मात् त्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुंक्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव
निमित्त-मात्रं भव सव्य-साचिन् ॥ |
|
34
|
द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथाऽन्यानपि योध-वीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठाः
युद्ध्यस्व जेतासि रणे सपत्नान् ॥ |
|
35
|
एतच्छ्रुत्वा वचनं केशवस्य
कृतांजलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाऽह कृष्णं
सगद्गदं भीत-भीतः प्रणम्य ॥ |
|
36
|
स्थाने हृषीकेश तव प्रकीर्त्या
जगत् प्रहृष्यत्यनु-रज्यते च ।
रक्षांसि भीतानि दिशो द्रवंति
सर्वे नमस्यंति च सिद्ध-संघाः ॥ |
|
37
|
कस्माच्च ते न नमेरन् महात्मन्
गरीयसे ब्रह्मणोऽप्यादि-कर्त्रे ।
अनंत देवेश जगन्निवास
त्वमक्षरं सदसत् तत्परं यत् ॥ |
|
38
|
त्वमादि-देवः पुरुषः पुराणः
त्वमस्य विश्वस्य परं निधानम् ।
वेत्ताऽसि वेद्यं च परं च धाम
त्वया ततं विश्वमनंत-रूप ॥ |
|
39
|
वायुर्यमोऽग्निर्वरुणः शशांकः
प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्र-कृत्वः
पुनश्च भूयोऽपि नमो-नमस्ते ॥ |
|
40
|
नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व ।
अनंत-वीर्यामित-विक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः ॥ |
|
41
|
सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात् प्रणयेन वाऽपि ॥ |
|
42
|
यच्चाप-हासार्थमसत्कृतोऽसि
विहार-शय्यासन-भोजनेषु ।
एकोऽथवाऽप्यच्युत तत् समक्षं
तत् क्षामये त्वामहमप्र-मेयम् ॥ |
|
43
|
पिताऽसि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत् समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोक-त्रयेऽप्यप्रतिम-प्रभाव ॥ |
|
44
|
तस्मात् प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ॥ |
|
45
|
अदृष्ट-पूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास ॥ |
|
46
|
किरीटिनं गदिनं चक्र-हस्तं
इच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन
सहस्र-बाहो भव विश्व-मूर्ते ॥ |
|
भगवान्
उवाच
|
|
47
|
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्म-योगात् ।
तेजो-मयं विश्वमनंतमाद्यं
यन्मे त्वदन्येन न दृष्ट-पूर्वम् ॥ |
|
48
|
न वेद-यज्ञाध्ययनैर्न दानैः
न च क्रियाभिर्न तपोभिरुग्रैः ।
एवं-रूपः शक्य अहं नृ-लोके
द्रष्टुं त्वदन्येन कुरु-प्रवीर ॥ |
|
49
|
मा ते व्यथा मा च विमूढ-भावो
दृष्ट्वारूपं घोरमीदृङ्ममेदम्
व्यपेत-भीः प्रीत-मनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य ॥ |
|
50
|
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्य-वपुर्महात्मा ॥ |
|
अर्जुन
उवाच
|
|
51
|
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि सं-वृत्तः स-चेताः प्रकृतिं गतः ॥ |
|
भगवान्
उवाच
|
|
52
|
सु-दुर्दर्शमिदं रूपं दृष्ट-वानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शन-कांक्षिणः ॥ |
|
53
|
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवं-विधो द्रष्टुं दृष्ट-वानसि मां यथा ॥ |
|
54
|
भक्त्यात्वनन्यया शक्य अहमेवं-विधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परं तप ॥ |
|
55
|
मत्कर्म-कृन्मत्परमो मद्भक्तः संग-वर्जितः ।
निर्वैरः सर्व-भूतेषु यः स मामेति पांडव ॥ |