|
अर्जुन
उवाच
|
|
1
|
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधि-भूतं च किं प्रोक्तं अधि-दैवं किमुच्यते ॥ |
|
2
|
अधि-यज्ञः कथं कोऽत्र देहेऽस्मिन् मधु-सूदन ।
प्रयाण-काले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ |
|
भगवान्
उवाच
|
|
3
|
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूत-भावोद्भव-करो विसर्गः कर्म-संज्ञितः ॥ |
|
4
|
अधि-भूतं क्षरो भावः पुरुषश्चाधि-दैवतम् ।
अधि-यज्ञोऽहमेवात्र देहे देह-भृतां वर ॥ |
|
5
|
अंत-काले च मामेव स्मरन् मुक्त्वा कळेबरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ |
|
6
|
यं-यं वाऽपि स्मरन् भावं त्यजत्यंते कळेबरम् ।
तं-तमेवैति कौंतेय सदा तद्भाव-भावितः ॥ |
|
7
|
तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पित-मनो-बुद्धिः मामेवैष्यस्यसंशयम् ॥ |
|
8
|
अभ्यास-योग-युक्तेन चेतसाऽनन्य-गामिना ।
परमं पुरुषं दिव्यं याति पार्थानु-चिंतयन् ॥ |
|
9
|
कविं पुराणमनु-शासितारं
अणोरणीयांसमनु-स्मरेद् यः ।
सर्वस्य धातारमचिंत्य-रूपं
आदित्य-वर्णं तमसः परस्तात् ॥ |
|
10
|
प्रयाण-काले मनसाऽचलेन
भक्त्यायुक्तो योग-बलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यम् ॥ |
|
11
|
यदक्षरं वेद-विदो वदंति
विशंति यद् यतयो वीत-रागाः ।
यदिच्छंतो ब्रह्म-चर्यं चरंति
तत् ते पदं संग्रहेण प्रवक्ष्ये ॥ |
|
12
|
सर्व-द्वाराणि संयम्य मनो हृदि निरुद्ध्य च ।
मूर्ध्न्यार्यधायाऽत्मनः प्राणं आस्थितो योग-धारणाम् ॥ |
|
13
|
ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनु-स्मरन् ।
यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ |
|
14
|
अनन्य-चेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥ |
|
15
|
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाऽप्नुवंति महात्मानः संसिद्धिं परमां गताः ॥ |
|
16
|
आ ब्रह्म-भुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौंतेय पुनर्जन्म न विद्यते ॥ |
|
17
|
सहस्र-युग-पर्यंतं अहर्यद् ब्रह्मणो विदुः ।
रात्रिं युग-सहस्रांतां तेऽहोरात्र-विदो जनाः ॥ |
|
18
|
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवंत्यहरागमे ।
रात्र्यागमे प्रलीयंते तत्रैवाव्यक्त-संज्ञके ॥ |
|
19
|
भूत-ग्रामः स एवायं भूत्वा-भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ |
|
20
|
परस्तस्मात्तु भावोऽन्योऽव्यक्तो व्यक्तात् सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ |
|
21
|
अव्यक्तोऽक्षर इत्युक्तः तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तंते तद् धाम परमं मम ॥ |
|
22
|
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यांतःस्थानि भूतानि येन सर्वमिदं ततम् ॥ |
|
23
|
यत्र काले त्वनावृत्तिं आवृत्तिं चैव योगिनः ।
प्रयाता यांति तं कालं वक्ष्यामि भरतर्षभ ॥ |
|
24
|
अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छंति ब्रह्म ब्रह्म-विदो जनाः ॥ |
|
25
|
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चांद्रमसं ज्योतिः योगी प्राप्य निवर्तते ॥ |
|
26
|
शुक्ल-कृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिं अन्ययाऽऽवर्तते पुनः ॥ |
|
27
|
नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।
तस्मात् सर्वेषु कालेषु योग-युक्तो भवार्जुन ॥ |
|
28
|
वेदेषु यज्ञेषु तपस्सु चैव
दानेषु यत्पुण्य-फलं प्रदिष्टम् ।
अत्येति तत् सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाऽद्यम् ॥ |